साधनमन्त्र
इदानीं वयं समुहे साधनमन्त्रस्य जपं कुर्याम।
---------------------------------------------------------------------------------
अक्षरम् अहं - पुरुषोत्तमदासोऽस्मि ।
अक्षरसदृशः अहं - पुरुषोत्तमस्य दासः अस्मि ।।
---------------------------------------------------------------------------------
इदानीं वयं हस्तौ बध्वा गद्गद कण्ठेन प्रार्थनां कुर्याम।
---------------------------------------------------------------------------------
हे महाराजाः! हे स्वामिनः! हे प्रमुखस्वामिमहाराजाः!
हे महन्तस्वामिमहाराजाः!
सर्वेभ्य: सत्सङ्गस्य यथार्थं सुखं प्राप्येत।
तदर्थम् सर्वेषां सर्वासाम् उपाधीनां निवारणं कुर्वन्तु।।
अन्तःशत्रुत:, अहं-ममत्वरूपिनी मायातः, तथा च कुसङ्गत:, रक्षां कुर्वन्तु।
भवत्सु तथा च भवतां भक्तेषु अखण्डः दिव्यभावः वर्तेत।
सर्वेषां दासानुदासाः भवेम।।
सर्वत्र सर्वकाले गुणानाम् एव दर्शनं भवेत् , ऐक्यं वर्धयितुं च बलं लभ्येत।
अक्षरपुरुषोत्तमसिद्धान्तः अस्माकं जीवेषु दृढो भवेत् , तस्य च प्रवर्तनं क्रियेत।
अस्मिन्नेव जन्मनि एकान्तिकधर्मं सिद्धं कृत्वा , अक्षरधामं प्राप्नुयाम, एवं आशीर्वादान् ददतु।
---------------------------------------------------------------------------------
अस्याः प्रार्थनायाः परिपूर्तये, तथा च परम पूज्य महन्तस्वामिमहाराजानां स्वास्थ्यः अखण्डं निरामयं भूयात्।
सकले विश्वे ऐक्यं शान्तिश्च प्रवर्तेयाताम्।
सर्वे तनो मनो धनैः सर्व प्रकारेण सुखिनः भवेयुः।
सर्वेषां च शुभ सङ्कल्पाः सिद्धाः भवेयुः।
तदर्थम् इदानीं वयं स्वामिनारायण महामन्त्रस्य जापेन प्रार्थनां करिष्यामः।
जयतु स्वामिनारायणः।

0 comments:
Post a Comment