Satsang Diksha

This is my humble effort to analyze all SLOKA of Satsang Diksha. There are two sections in this article. (1) Most common words. It lists out all slokas that have the specific word (2) Sanskrit Grammar aspects. It lists out usage of सति सप्तमी , शतृ प्रत्यय , द्वि वचन, णिच प्रत्यय, क्त्वा  प्रत्यय, ल्यप प्रत्यय, तुमुन् प्रत्यय etc. Please refer blog post "Satsang Diksha - Grammar"  

This article may help to people who wish to byheart the complete Satsang Diksha. 

Jai Swaminarayan!

Common Words

1. स्वामिनारायण

स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः।
सर्वेभ्यः परमां शान्तिम् आनन्दं सुखमर्पयेत्॥ १॥

सत्सङ्गः स्थापितस्तस्माद् दिव्योऽयं परब्रह्मणा।
स्वामिनारायणेनेह साक्षादेवाऽवतीर्य च॥ ६॥

स्वामिनारायणेऽनन्य-दृढपरमभक्तये।
गृहीत्वाऽऽश्रयदीक्षाया मन्त्रं सत्सङ्गमाप्नुयात्॥ १८॥

आश्रयदीक्षामन्त्रश्चैवंविधः -
धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।
अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात्॥ १९॥

मनसा वचसा वाऽपि कर्मणा हिंसने कृते।
तत्स्थितो दुःख्यते नूनं स्वामिनारायणो हरिः॥ ४०॥

उरसि हस्तयोश्चन्द्रं तिलकं चन्दनेन च।
स्वामिनारायणं मन्त्रं जपन् कुर्याद् गुरुं स्मरन्॥ ५४॥

मालामावर्त येद् मन्त्रं स्वामिनारायणं जपन्।
महिम्ना दर्शनं कुर्वन् मूर् तीनां स्थिरचेतसा॥ ६६॥

दिव्यभावेन भक्त्या च तदनु प्रार्थयेज्जपन्।
स्वामिनारायणं मन्त्रं शुभसङ्कल्पपूर्तये॥ ७१॥

स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः।
परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥ ९६॥

नित्यान्यथ च सत्यानि विज्ञेयानि मुमुक्षुभिः।
स्वामिनारायणेनैवं सिद्धान्तितं स्वयं स्फुटम्॥ १०३॥

स्वामिनारायणो मन्त्रो दिव्यश्चाऽलौकिकः शुभः।
जप्योऽयं सकलैर्भक्तैर्दत्तोऽयं हरिणा स्वयम्॥ १०९॥

स्वामिनारायणेनेह सिद्धान्तोऽयं प्रबोधितः।
गुरुभिश्च गुणातीतैर्दिगन्ते ऽयं प्रवर्ति तः॥ १११॥

निन्दालज्जाभयाऽऽपद्भ्यः सत्सङ्गं न परित्यजेत्।
स्वामिनारायणं देवं तद्भक्तिं कर्हिचि द् गुरुम्॥ १२१॥

प्रसन्नतां समावाप्तुं स्वामिनारायणप्रभोः।
गुणातीतगुरूणां च सत्सङ्गमाश्रयेत् सदा॥ १२७॥

कार्यं लीलाचरित्राणां स्वामिनारायणप्रभोः।
श्रवणं कथनं पाठो मननं निदिध्यासनम्॥ १३३॥

परमात्मपरब्रह्म-स्वामिनारायणप्रभोः।
ब्रह्माऽक्षरस्वरूपस्य गुणातीतगुरोस्तथा॥ १४१॥

कर्ताऽयं सर्वहर्ताऽयं सर्वोपरि नियामकः।
प्रत्यक्षमिह लब्धो मे स्वामिनारायणो हरिः॥ १४७॥

भूतं यच्च भवद्यच्च यदेवाऽग्रे भविष्यति।
सर्वं तन्मे हितायैव स्वामिनारायणेच्छया॥ १५२॥

प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।
गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥ १५३॥

मया सह सदैवाऽस्ति सर्वदोषनिवारकः।
स्वामिनारायणः साक्षाद् एवं बलं च धारयेत्॥ १५५॥

सुखे नोच्छृङ्खलो भूयाद् दुःखे नोद्वेगमाप्नुयात्।
स्वामिनारायणेच्छातः सर्वं प्रवर्तते यतः॥ १६९॥

स्वाऽऽयाद्धि दशमो भागो विंशोऽथवा स्वशक्तितः।
अर्प्यः सेवाप्रसादार्थं स्वामिनारायणप्रभोः॥ १९५॥

उपदेशाश्चरित्राणि स्वामिनारायणप्रभोः।
गुणातीतगुरूणां च सत्सङ्गिनां हि जीवनम्॥ २३७॥

स्वामिनारायणे भक्तिं परां दृढयितुं हृदि।
गुरुहरेः समादेशाच्चातुर्मास्ये व्रतं चरेत्॥ २४०॥

जन्ममहोत्सवा नित्यं स्वामिनारायणप्रभोः।
ब्रह्माऽक्षरगुरूणां च कर्तव्या भक्तिभावतः॥ २४५॥

स्वामिनारायणेनेह स्वयं यद्धि प्रसादि तम्।
गुरुभिश्चाऽक्षरब्रह्म-स्वरूपैर्यत् प्रसादितम्॥ २५८॥

स्वाऽऽत्मब्रह्मैकतां प्राप्य स्वामिनारायणो हरिः।
सर्वदा भजनीयो हि त्यागिभिर्दिव्यभावतः॥ २८५॥

परमात्मा परं ब्रह्म स्वामिनारायणो हरिः।
सिद्धान्तं स्थापयामास ह्यक्षरपुरुषोत्तमम्॥ २९५॥

कृपयैवाऽवतीर्णोऽत्र मुमुक्षुमोक्षहेतुना।
परब्रह्म दयालुर्हि स्वामिनारायणो भुवि॥ २९७॥

सर्वत्रैवाऽभिवर्षन्तु सदा दिव्याः कृपाऽऽशिषः।
परमात्मपरब्रह्म-स्वामिनारायणप्रभोः॥ २९९॥

चैत्रशुक्लनवम्यां च स्वामिनारायणप्रभोः।
तच्च संपूर्णतां प्राप्तं दिव्यजन्ममहोत्सवे॥ ३१०॥

तनोतु सकले विश्वे परमानन्दमङ्गलम्।
स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः॥ ३१५॥

2. अक्षरपुरुषोत्तम

स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः
सर्वेभ्यः परमां शान्तिम् आनन्दं सुखमर्पयेत्॥ १॥

यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः
निश्चयेन तरिष्यामि दुःखजातं हि तद्बलात्॥ ४७॥

मध्ये तु स्थापयेत्तत्र ह्यक्षरपुरुषोत्तमौ
स्वामिनं हि गुणातीतं महाराजं च तत्परम्॥ ६१॥

ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्
व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥ ६८॥

भक्तितः पूजयित्वैवम् अक्षरपुरुषोत्तमम्
पुनरागममन्त्रेण प्रस्थापयेन्निजात्मनि॥ ७२॥

पुनरागमनमन्त्रश्चैवंविधः -
भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।
गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥ ७३॥

प्रस्थाप्यौ विधिवत् तस्मिन्नक्षरपुरुषोत्तमौ
गुरवश्च गुणातीता भक्त्या परम्परागताः॥ ८०॥

एवमेव गृहाद्येषु कृतेषु मन्दिरेष्वपि।
मध्ये प्रस्थाप्यते नित्यं साऽक्षरः पुरुषोत्तमः॥ ९२॥

सिद्धान्तं सुविजानीयाद् अक्षरपुरुषोत्तमम्
ब्रह्मविद्यात्मकं दिव्यं वैदिकं च सनातनम्॥ १०१॥

तेषु मायापरौ नित्यम् अक्षरपुरुषोत्तमौ
जीवानामीश्वराणां च मुक्तिस्तद्योगतो भवेत्॥ १०४॥

अयमेव स सिद्धान्तो मुक्तिप्रदः सनातनः।
उच्यते दर्शनं दिव्यम् अक्षरपुरुषोत्तमम्॥ ११४॥

अहो इहैव नः प्राप्तावक्षरपुरुषोत्तमौ
तत्प्राप्तिगौरवान्नित्यं सत्सङ्गानन्दमाप्नुयात्॥ १२८॥

दृश्यो न मानुषो भावो भगवति तथा गुरौ।
मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥ १३१॥

मरणादिप्र सङ्गेषु कथाभजनकीर्तनम्।
कार्यं विशेषतः स्मार्यो ह्यक्षरपुरुषोत्तमः॥ १७७॥

सत्सङ्गशास्त्रपाठाद्यैर्गर्भस्थामेव संततिम्।
संस्कुर्यात् पूरयेन् निष्ठाम् अक्षरपुरुषोत्तमे॥ १७९॥

संजाते देशकालादेर्वैपरीत्ये तु धैर्यतः।
अन्तर्भजेत सानन्दम् अक्षरपुरुषोत्तमम्॥ २०७॥

भवेद् यो दृढनिष्ठावान् अक्षरपुरुषोत्तमे
दृढभक्तिर्विवेकी च कुर्यात् तत्सङ्गमादरात्॥ २२९॥

परिरक्षेद् दृढां निष्ठाम् अक्षरपुरुषोत्तमे
तथाऽपि नैव कर्तव्यं देवताऽन्तरनिन्दनम्॥ २५२॥

नैव मन्येत कर्तृत्वं कालकर्मादिकस्य तु।
मन्येत सर्वकर्तारम् अक्षरपुरुषोत्तमम्॥ २७९॥

विपत्तिषु धरेद्धैर्यं प्रार्थनं यत्नमाचरेत्।
भजेत दृढविश्वासम् अक्षरपुरुषोत्तमे॥ २८०॥

त्यागिभिः प्रीतिवृद्ध्यर्थम् अक्षरपुरुषोत्तमे
निष्कामत्वं सदा धार्यं निर्लोभत्वं सदैव च॥ २८३॥

त्यागो न केवलं त्यागस्त्यागो भक्तिमयस्त्वयम्।
परित्यागो ह्ययं प्राप्तुम् अक्षरपुरुषोत्तमम्॥ २८६॥

परमात्मा परं ब्रह्म स्वामिनारायणो हरिः।
सिद्धान्तं स्थापयामास ह्यक्षरपुरुषोत्तमम्॥ २९५॥

सर्वेषां जायतां प्रीतिर्दृढा निष्ठा च निश्चयः।
विश्वासो वर्धतां नित्यम् अक्षरपुरुषोत्तमे॥ ३०३॥

तनोतु सकले विश्वे परमानन्दमङ्गलम्।
स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः॥ ३१५॥

3. मुमुक्षु

सर्वमिदं हि सत्सङ्गाल्लभ्यते निश्चितं जनैः।
अतः सदैव सत्सङ्गः करणीयो मुमुक्षुभिः॥ ५॥

आश्रयेत् सहजानन्दं हरिं ब्रह्माऽक्षरं तथा।
गुणातीतं गुरुं प्रीत्या मुमुक्षुः स्वात्ममुक्तये॥ २०॥

तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः
नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥ ४३॥

नित्यान्यथ च सत्यानि विज्ञेयानि मुमुक्षुभिः
स्वामिनारायणेनैवं सिद्धान्तितं स्वयं स्फुटम्॥ १०३॥

प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा।
कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥ १३४॥

सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।
अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥ १४०॥

तदाज्ञां यत् परित्यज्य क्रियते स्वमनोधृतम्।
परधर्मः स विज्ञेयो विवेकिभिर्मुम ुक्षुभिः॥ १५७॥

सत्सङ्गेऽपि कुसङ्गो यो ज्ञेयः सोऽपि मुमुक्षुभिः
तत्सङ्गश्च न कर्तव्यो हरिभक्तैः कदाचन॥ २२४॥

कृपयैवाऽवतीर्णोऽत्र मुमुक्षुमोक्षहेतुना।
परब्रह्म दयालुर्हि स्वामिनारायणो भुवि॥ २९७॥

4. सत्सङ्गि

सर्वं दुर्व्यसनं त्याज्यं सर्वैः सत्सङ्गिभिः सदा।
अनेकरोगदुःखानां कारणं व्यसनं यतः॥ २६॥

यागार्थमप्यजादीनां निर्दोषाणां हि प्राणिनाम्।
हिंसनं नैव कर्तव्यं सत्सङ्गिभिः कदाचन॥ ३५॥

सत्सङ्गिभिः प्रबोद्धव्यं पूर्वं सूर्योदयात् सदा।
ततः स्नानादिकं कृत्वा धर्तव्यं शुद्धवस्त्रकम्॥ ५१॥

भक्तिप्रार्थनसत्सङ्गहेतुना प्रतिवासरम्।
सुन्दरं मन्दिरं स्थाप्यं सर्वैः सत्सङ्गिभिर्गृहे॥ ७९॥

प्रातः सायं यथाकालं सर्वसत्सङ्गिभिर्जनैः।
निकटं मन्दिरं गम्यं भक्त्या दर्शाय प्रत्यहम्॥ ९३॥

यथा स्वधर्मरक्षा स्यात् तथैव वस्त्रधारणम्।
सत्सङ्गिनरनारीभिः करणीयं हि सर्वदा॥ ९४॥

सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।
अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥ १४०॥

न कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्।
दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥ १९१॥

उपदेशाश्चरित्राणि स्वामिनारायणप्रभोः।
गुणातीतगुरूणां च सत्सङ्गिनां हि जीवनम्॥ २३७॥

सर्वैः सत्सङ्गिभिः कार्याः प्रीतिं वर्धयितुं हरौ।
उत्सवा भक्तिभावेन हर्षेणोल्लासतस्तथा॥ २४४॥

हरेर्गुरोर्विशिष्टानां प्रसङ्गानां दिनेषु च।
सत्सङ्गिभिर्यथाशक्ति कार्याः पर्वोत्सवा जनैः॥ २४६॥

आदित्यचन्द्रयोर्ग्राह-काले सत्सङ्गिभिः समैः।
परित्यज्य क्रियाः सर्वाः कर्तव्यं भजनं हरेः॥ २६४॥

सत्सङ्गरीतिमाश्रित्य गुर्वादेशाऽनुसारतः।
परिशुद्धेन भावेन सर्वैः सत्सङ्गिभिर्जनैः॥ २७२॥

एतत्सत्सङ्गदीक्षेति शास्त्रस्य प्रतिवासरम्।
कार्यः सत्सङ्गिभिः पाठ एकाग्रचेतसा जनैः॥ २९३॥

5. सत्सङ्गमाश्रितः

चौर्यं न कर्हिचित् कार्यं सत्सङ्गमाश्रितैर्जनैः।
धर्मार्थमपि नो कार्यं चोरकार्यं तु कर्हिचित्॥ ३१॥

मत्वाऽपि यज्ञशेषं च वाऽपि देवनिवेदितम्।
मांसं कदापि भक्ष्यं न सत्सङ्गमाश्रितैर्जनैः॥ ३७॥

ततः पूजाऽधिकाराय भक्तः सत्सङ्गमाश्रितः।
कुर्यादात्मविचारं च प्रतापं चिन्तयन् हरेः॥ ५६॥

सेवां मातुः पितुः कुर्याद् गृही सत्सङ्गमाश्रितः
प्रतिदिनं नमस्कारं तत्पादेषु निवेदयेत्॥ १७२॥

मनुष्यो व्यसनी यः स्याद् निर्लज्जो व्यभिचारवान्।
तस्य सङ्गो न कर्त व्यः सत्सङ्गमाश्रितैर्जनैः॥ १८६॥

नैव विश्वासघातं हि कुर्यात् सत्सङ्गमाश्रितः
पालयेद् वचनं दत्तं प्रतिज्ञातं न लङ्घयेत्॥ २००॥

अयोग्यविषयाश्चैवम् अयोग्यव्यसनानि च।
आशङ्काः संपरित्याज्याः सत्सङ्गमाश्रितैः सदा॥ २७८॥

6. सहजानन्द

शास्त्रेऽस्मिञ्ज्ञापिता स्पष्टम् आज्ञोपासनपद्धतिः।
परमात्म-परब्रह्म-सहजानन्द-दर्शिता॥ ११॥

आश्रयेत् सहजानन्दं हरिं ब्रह्माऽक्षरं तथा।
गुणातीतं गुरुं प्रीत्या मुमुक्षुः स्वात्ममुक्तये॥ २०॥

आह्वानमन्त्रश्चैवंविधः -
उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।
गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥ ६४॥

शुभाऽशुभप्रसङ्गेषु महिमसहितं जनः।
पवित्रां सहजानन्द-नामावलिं पठेत् तथा॥ २७६॥

भवन्तु बलिनः सर्वे भक्ताश्च धर्मपालने।
आप्नुयुः सहजानन्द-परात्मनः प्रसन्नताम्॥ ३०४॥

अक्षररूपतां सर्वे संप्राप्य स्वात्मनि जनाः।
प्राप्नुयुः सहजानन्दे भक्तिं हि पुरुषोत्तमे॥ ३०८॥

उपास्यसहजानन्द-हरये परब्रह्मणे।
मूला ऽक्षरगुणातीतानन्दाय स्वामिने तथा॥ ३११॥

7. गुणातीत

आश्रयेत् सहजानन्दं हरिं ब्रह्माऽक्षरं तथा।
गुणातीतं गुरुं प्रीत्या मुमुक्षुः स्वात्ममुक्तये॥ २०॥

मध्ये तु स्थापयेत्तत्र ह्यक्षरपुरुषोत्तमौ।
स्वामिनं हि गुणातीतं महाराजं च तत्परम्॥ ६१॥

आह्वानमन्त्रश्चैवंविधः -
उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।
गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥ ६४॥

प्रस्थाप्यौ विधिवत् तस्मिन्नक्षरपुरुषोत्तमौ।
गुरवश्च गुणातीता भक्त्या परम्परागताः॥ ८०॥

साक्षाद् ब्रह्माऽक्षरं स्वामी गुणातीतः सनातनम्।
तस्य परम्पराऽद्याऽपि ब्रह्माऽक्षरस्य राजते॥ ९८॥

गुणातीतसमारब्ध-परम्पराप्रतिष्ठितः।
प्रकटाऽक्षरब्रह्मैकः संप्रदायेऽस्ति नो गुरुः॥ ९९॥

स्वामिनारायणेनेह सिद्धान्तोऽयं प्रबोधितः।
गुरुभिश्च गुणातीतैर्दिगन्ते ऽयं प्रवर्ति तः॥ १११॥

प्रसन्नतां समावाप्तुं स्वामिनारायणप्रभोः।
गुणातीतगुरूणां च सत्सङ्गमाश्रयेत् सदा॥ १२७॥

परमात्मपरब्रह्म-स्वामिनारायणप्रभोः।
ब्रह्माऽक्षरस्वरूपस्य गुणातीतगुरोस्तथा॥ १४१॥

स्वामिवार्ताः पठेन्नित्यं तथैव वचनामृतम्।
गुणातीतगुरूणां च चरितं भावतः पठेत्॥ २३६॥

उपदेशाश्चरित्राणि स्वामिनारायणप्रभोः।
गुणातीतगुरूणां च सत्सङ्गिनां हि जीवनम्॥ २३७॥

गुरवश्च गुणातीताश्चक्रुस्तस्य प्रवर्तनम्।
विरचितमिदं शास्त्रं तत्सिद्धान्ताऽनुसारतः॥ २९६॥

उपास्यसहजानन्द-हरये परब्रह्मणे।
मूला ऽक्षरगुणातीतानन्दाय स्वामिने तथा॥ ३११॥

8. कर्हिचित्

न न्यूनाऽधिकता कार्या वर्णाऽऽधारेण कर्हिचित्
त्यक्त्वा स्ववर्णमानं च सेवा कार्या मिथः समैः॥ १५॥

मांसं मत्स्यं तथाऽण्डानि भक्षयेयुर्न कर्हिचित्
पलाण्डुं लशुनं हिङ्गु न च सत्सङ्गिनो जनाः॥ २९॥

चौर्यं न कर्हिचित् कार्यं सत्सङ्गमाश्रितैर्जनैः।
धर्मार्थमपि नो कार्यं चोरकार्यं तु कर्हिचित्॥ ३१॥

मनुष्याणां पशूनां वा मत्कुणादेश्च पक्षिणाम्।
केषाञ्चिज्जीवजन्तूनां हिंसा कार्या न कर्हिचित्॥ ३३॥

निन्दालज्जाभयाऽऽपद्भ्यः सत्सङ्गं न परित्यजेत्।
स्वामिनारायणं देवं तद्भक्तिं कर्हिचि द् गुरुम्॥ १२१॥

सत्यां वदेद् हितां चैव वदेद् वाणीं प्रियां तथा।
मिथ्याऽऽरोप्योऽपवादो न कस्मिंश्चित् कर्हिचिज्जने॥ १६२॥

आचारो वा विचारो वा तादृक् कार्यो न कर्हिचित्
अन्येषाम् अहितं दुःखं येन स्यात् क्लेशवर्धनम्॥ १६७॥

एकादश्या व्रतं नित्यं कर्तव्यं परमादरात्।
तद्दिने नैव भोक्तव्यं निषिद्धं वस्तु कर्हिचित्॥ २५६॥

कालो वा कर्म वा माया प्रभवेन्नैव कर्हिचित्
अनिष्टकरणे नूनं सत्सङ्गाऽऽश्रयशालिनाम्॥ २७७॥

9. प्रत्यहम्

प्रणामो दण्डवच्चैकः क्षमायाचनपूर्वकम्।
भक्तद्रोहनिवारार्थं कार्योऽधिको हि प्रत्यहम्॥ ७०॥

ततः सत्सङ्गदार्ढ्याय शास्त्रं पठ्यं च प्रत्यहम्
आदेशाश्चोपदेशाश्च यत्र सन्ति हरेर्गुरोः॥ ७४॥

संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।
कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥ ८६॥

प्रातः सायं यथाकालं सर्वसत्सङ्गिभिर्जनैः।
निकटं मन्दिरं गम्यं भक्त्या दर्शाय प्रत्यहम्॥ ९३॥

अन्तर्दृष्टिश्च कर्तव्या प्रत्यहं स्थिरचेतसा।
किं कर्तुमागतोऽस्मीह किं कुर्वेऽहमिहेति च॥ १४५॥

संप्राप्याऽक्षररूपत्वं भजेयं पुरुषोत्तमम्।
प्रत्यहं चिन्तयेदेवं स्वीयलक्ष्यमतन्द्रितः॥ १४६॥

एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।
प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥

प्रत्यहमनुसन्धेया जगतो नाशशीलता।
स्वात्मनो नित्यता चिन्त्या सच्चिदानन्दरूपता॥ १५१॥

प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।
गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥ १५३॥

अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्।
महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥ २३८॥
 
10. कदाचन

यागार्थमप्यजादीनां निर्दोषाणां हि प्राणिनाम्।
हिंसनं नैव कर्तव्यं सत्सङ्गिभिः कदाचन॥ ३५॥

कस्याऽपि ताडनं नैव करणीयं कदाचन
अपशब्दाऽपमानादि-सूक्ष्महिंसाऽपि नैव च॥ ३८॥

आत्मघातोऽपि हिंसैव न कार्योऽतः कदाचन
पतनगलबन्धाद्यैर्विषभक्षादिभिस्तथा॥ ४१॥

ष्ठीवनं मलमूत्रादिविसर्जनं स्थलेषु च।
शास्त्रलोकनिषिद्धेषु न कर्तव्यं कदाचन॥ ४९॥

अक्षराधिपतेर्भक्तिं सधर्मामाचरेत् सदा।
धर्मेण रहितां नैव भक्तिं कुर्यात् कदाचन॥ ११७॥

विवादः कलहो वाऽपि नैव कार्यः कदाचन
वर्तितव्यं विवेकेन रक्ष्या शान्तिश्च सर्वदा॥ १७०॥

वचने वर्तने क्वापि विचारे लेखने तथा।
कठोरतां भजेन्नैव जनः कोऽपि कदाचन॥ १७१॥

कुदृष्ट्या पुरुषैर्नैव स्त्रियो दृश्याः कदाचन।
एवमेव कुदृष्ट्या च स्त्रीभिर्दृश्या न पूरुषाः॥ १८०॥

अश्लीलं यत्र दृश्यं स्याद् धर्मसंस्कारनाशकम्।
नाटकचलचित्रादि तन्न पश्येत् कदाचन॥ १८५॥

प्रदातुं कर्मकारिभ्यः प्रतिज्ञातं धनादिकम्।
यथावाचं प्रदेयं तद् नोनं देयं कदाचन॥ १९९॥

बाल्यादेव दृढीकुर्यात् सेवाविनम्रतादिकम्।
निर्बलतां भयं चाऽपि नैव गच्छेत् कदाचन॥ २११॥

सत्सङ्गेऽपि कुसङ्गो यो ज्ञेयः सोऽपि मुमुक्षुभिः।
तत्सङ्गश्च न कर्तव्यो हरिभक्तैः कदाचन॥ २२४॥

मन्दिराणि च शास्त्राणि सन्तस्तथा कदाचन
न निन्द्यास्ते हि सत्कार्या यथाशक्ति यथोचितम्॥ २५४॥

गच्छेद् यदा दर्शनार्थं भक्तजनो हरेर्गुरोः।
रिक्तेन पाणिना नैव गच्छेत् तदा कदाचन॥ २६३॥

धनं तु त्यागिभिस्त्याज्यं रक्ष्यं स्वीयतया न च।
स्पृश्यं नैवाऽपि वित्तं च त्यागिभिस्तु कदाचन॥ २८२॥

11. सदैव

सर्वमिदं हि सत्सङ्गाल्लभ्यते निश्चितं जनैः।
अतः सदैव सत्सङ्गः करणीयो मुमुक्षुभिः॥ ५॥

काष्ठजां द्विगुणां मालां कण्ठे सदैव धारयेत्।
सत्सङ्गं हि समाश्रित्य सत्सङ्गनियमांस्तथा॥ २१॥

निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्।
विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥ ११६॥

मया सह सदैवाऽस्ति सर्वदोषनिवारकः।
स्वामिनारायणः साक्षाद् एवं बलं च धारयेत्॥ १५५॥

सदैवाऽऽदरणीया हि विद्वद्वरिष्ठशिक्षकाः।
यथाशक्ति च सत्कार्याः साधुवादादिकर्मणा॥ १६०॥

त्यागिभिः प्रीतिवृद्ध्यर्थम् अक्षरपुरुषोत्तमे।
निष्कामत्वं सदा धार्यं निर्लोभत्वं सदैव च॥ २८३॥

12. सर्वदा

यथा स्वधर्मरक्षा स्यात् तथैव वस्त्रधारणम्।
सत्सङ्गिनरनारीभिः करणीयं हि सर्वदा॥ ९४॥

स एकः परमोपास्य इष्टदेवो हि नः सदा।
तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥ ९७॥

जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा।
परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥ १०२॥

परमात्मा परब्रह्म परं ब्रह्माऽक्षरात् सदा।
ब्रह्माऽपि सेवते तं च दासभावेन सर्वदा॥ १०५॥

नेयो न व्यर्थतां कालः सत्सङ्गं भजनं विना।
आलस्यं च प्रमादादि परित्याज्यं हि सर्वदा॥ १२३॥

तदर्पितस्य दिव्यस्य सिद्धान्तस्य च सर्वदा
भक्तानां तच्छ्रितानां च पक्षो ग्राह्यो विवेकतः॥ १४२॥

विवादः कलहो वाऽपि नैव कार्यः कदाचन।
वर्तितव्यं विवेकेन रक्ष्या शान्तिश्च सर्वदा॥ १७०॥

आपत्कालेऽन्यरक्षार्थं स्पर्शे दोषो न विद्यते।
अन्यथा नियमाः पाल्या अनापत्तौ तु सर्वदा॥ १८४॥

धर्मा वा संप्रदाया वा येऽन्ये तदनुयायिनः।
न ते द्वेष्या न ते निन्द्या आदर्तव्याश्च सर्वदा॥ २५३॥

नि यमम नुसृत्यैव सत्सङ्ग स्य तु मन ्दिरे।
वस्त्राणि परिधेयानि स्त्रीभिः पुम्भिश्च सर्वदा॥ २६२॥

स्वाऽऽत्मब्रह्मैकतां प्राप्य स्वामिनारायणो हरिः।
सर्वदा भजनीयो हि त्यागिभिर्दिव्यभावतः॥ २८५॥

न कश्चित् कस्यचित् कुर्याद् द्रोहं द्वेषं तथा जनः।
सेवन्तामादरं सर्वे सर्वदैव परस्परम्॥ ३०२॥

13. अतः

सर्वमिदं हि सत्सङ्गाल्लभ्यते निश्चितं जनैः।
अतः सदैव सत्सङ्गः करणीयो मुमुक्षुभिः॥ ५॥

अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्।
सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥ २५॥

आत्मघातोऽपि हिंसैव न कार्योऽतः कदाचन।
पतनगलबन्धाद्यैर्विषभक्षादिभिस्तथा॥ ४१॥

अत एवाऽस्मि धन्योऽहं परमभाग्यवानहम्।
कृतार्थश्चैव निःशङ्को निश्चिन्तोऽस्मि सदा सुखी॥ १४८॥

सङ्गोऽत्र बलवाँल्लोके यथासङ्गं हि जीवनम्।
सतां सङ्गम् अतः कुर्यात् कुसङ्गं सर्वथा त्यजेत्॥ २१६॥

अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्।
महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥ २३८॥

14. यतः

जात्या नैव महान् कोऽपि नैव न्यूनस्तथा यतः
जात्या क्लेशो न कर्तव्यः सुखं सत्सङ्गमाचरेत्॥ १६॥

सर्वेऽधिकारिणो मोक्षे गृहिणस्त्यागिनोऽपि च।
न न्यूनाऽधिकता तत्र सर्वे भक्ता यतः प्रभोः॥ १७॥

सर्वं दुर्व्यसनं त्याज्यं सर्वैः सत्सङ्गिभिः सदा।
अनेकरोगदुःखानां कारणं व्यसनं यतः॥ २६॥

यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः।
निश्चयेन तरिष्यामि दुःखजातं हि तद्बलात्॥ ४७॥

वर्तत उत्तमो भक्तो ब्रह्म भगवतोऽक्षरम्।
नित्यं मायापरं नित्यं हरिसेवारतं यतः॥ ८९॥

दृश्यो न मानुषो भावो भगवति तथा गुरौ।
मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥ १३१॥

सुखे नोच्छृङ्खलो भूयाद् दुःखे नोद्वेगमाप्नुयात्।
स्वामिनारायणेच्छातः सर्वं प्रवर्तते यतः॥ १६९॥

15. ततः

सत्सङ्गिभिः प्रबोद्धव्यं पूर्वं सूर्योदयात् सदा।
ततः स्नानादिकं कृत्वा धर्तव्यं शुद्धवस्त्रकम्॥ ५१॥

पूर्वस्यामुत्तरस्यां वा दिशि कृत्वा मुखं ततः
शुद्धाऽऽसनोपविष्टः सन् नित्यपूजां समाचरेत्॥ ५२॥

ततः पूजाऽधिकाराय भक्तः सत्सङ्गमाश्रितः।
कुर्यादात्मविचारं च प्रतापं चिन्तयन् हरेः॥ ५६॥

स्थापयेच्चित्रमूर् तीश्च शुचिवस्त्रोपरि ततः
दर्शनं स्याद् यथा सम्यक् तथा हि भक्तिभावतः॥ ६०॥

एकपादोत्थितो भूत्वा मालाम् आवर्तयेत् ततः
तपस ऊर्ध्वहस्तः सन् कुर्वाणो मूर्तिदर्शनम्॥ ६७॥

ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्।
व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥ ६८॥

साष्टाङ्गा दण्डवत् कार्याः प्रणामाः पुरुषैस्ततः
नारीभिस्तूपविश्यैव पञ्चाङ्गा दासभावतः॥ ६९॥

ततः सत्सङ्गदार्ढ्याय शास्त्रं पठ्यं च प्रत्यहम्।
आदेशाश्चोपदेशाश्च यत्र सन्ति हरेर्गुरोः॥ ७४॥

यैव रसवती पक्वा मन्दिरे तां निवेदयेत्।
उच्चार्य प्रार्थनं भक्त्या ततः प्रसादितं जमेत्॥ ८३॥

कुर्याद्धि भजनं कुर्वन् क्रिया आज्ञाऽनुसारतः।
क्रियाबन्धः क्रियाभारः क्रियामानस्ततो नहि॥ १२४॥

16. चेतसा

अक्षरमहमित्येव ं भक्त्या प्रसन्नचेतसा
पुरुषोत्तमदासोऽस्मि मन्त्रमेतं वदेच्छुचिम्॥ ५७॥

अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्।
कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥ ५८॥

मालामावर्त येद् मन्त्रं स्वामिनारायणं जपन्।
महिम्ना दर्शनं कुर्वन् मूर् तीनां स्थिरचेतसा॥ ६६॥

उच्चैः स्वरैर्जय स्वामि-नारायणेति भक्तितः।
सतालिवादनं गेयं स्थिरेण चेतसा तदा॥ ८२॥

कीर्तनं वा जपं कुर्यात् स्मृत्यादि वा यथारुचि।
गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥ ८५॥

अन्तर्दृष्टिश्च कर्तव्या प्रत्यहं स्थिरचेतसा
किं कर्तुमागतोऽस्मीह किं कुर्वेऽहमिहेति च॥ १४५॥

एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।
प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥

उत्साहाद् आदरात् कुर्यात् स्वाऽभ्यासं स्थिरचेतसा
व्यर्थतां न नयेत्कालं विद्यार्थी व्यर्थकर्मसु॥ २१०॥

अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्।
महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥ २३८॥

एतत्सत्सङ्गदीक्षेति शास्त्रस्य प्रतिवासरम्।
कार्यः सत्सङ्गिभिः पाठ एकाग्रचेतसा जनैः॥ २९३॥

17. कार्या / कार्यः / कार्यं 

न न्यूनाऽधिकता कार्या वर्णाऽऽधारेण कर्हिचित्।
त्यक्त्वा स्ववर्णमानं च सेवा कार्या मिथः समैः॥ १५॥

मनुष्याणां पशूनां वा मत्कुणादेश्च पक्षिणाम्।
केषाञ्चिज्जीवजन्तूनां हिंसा कार्या न कर्हिचित्॥ ३३॥

तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः।
नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥ ४३॥

साष्टाङ्गा दण्डवत् कार्याः प्रणामाः पुरुषैस्ततः।
नारीभिस्तूपविश्यैव पञ्चाङ्गा दासभावतः॥ ६९॥

प्रणामो दण्डवच्चैकः क्षमायाचनपूर्वकम्।
भक्तद्रोहनिवारार्थं कार्योऽधिको हि प्रत्यहम्॥ ७०॥

संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।
कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥ ८६॥

प्रीतिः कार्याऽऽत्मबुद्धिश्च ब्रह्माऽक्षरे गुरौ दृढा।
प्रत्यक्षभगवद्भावात् सेव्यो ध्येयः स भक्तितः॥ १०८॥

निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्।
विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥ ११६॥

स्वदुर्गुणान् अपाकर्तुं संप्राप्तुं सद्गुणांस्तथा।
सत्सङ्गाऽऽश्रयणं कार्यं स्वस्य परममुक्तये॥ १२६॥

सेवाभक्तिकथाध्यानतपोयात्रादि साधनम्।
मानतो दम्भतो नैव कार्यं नैवेर्ष्यया तथा॥ १२९॥

स्पर्धया द्वेषतो नैव न लौकिकफलेच्छया।
श्रद्धया शुद्धभावेन कार्यं प्रसन्नताधिया॥ १३०॥

कार्यं लीलाचरित्राणां स्वामिनारायणप्रभोः।
श्रवणं कथनं पाठो मननं निदिध्यासनम्॥ १३३॥

वार्ता कार्या महिम्नो हि ब्रह्मपरमब्रह्मणोः।
तत्सम्बन्धवतां चाऽपि सस्नेहमादरात् सदा॥ १३९॥

एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।
प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥

आचारो वा विचारो वा तादृक् कार्यो न कर्हिचित्।
अन्येषाम् अहितं दुःखं येन स्यात् क्लेशवर्धनम्॥ १६७॥

सुहृद्भावेन भक्तानां शुभगुणगणान् स्मरेत्।
न ग्राह्योऽवगुणस्तेषां द्रोहः कार्यो न सर्वथा॥ १६८॥

विवादः कलहो वाऽपि नैव कार्यः कदाचन।
वर्तितव्यं विवेकेन रक्ष्या शान्तिश्च सर्वदा॥ १७०॥

मिलित्वा भोजनं कार्यं गृहस्थैः स्वगृहे मुदा।
अतिथिर्हि यथाशक्ति संभाव्य आगतो गृहम्॥ १७६॥

मरणादिप्र सङ्गेषु कथाभजनकीर्तनम्।
कार्यं विशेषतः स्मार्यो ह्यक्षरपुरुषोत्तमः॥ १७७॥

कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्।
दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥ १९१॥

लुञ्चा कदापि न ग्राह्या कैश्चिदपि जनैरि ह।
नैव कार्यो व्ययो व्यर्थः कार्यः स्वाऽऽयाऽनुसारतः॥ १९३॥

धनद्रव्यधरादीनां प्रदानाऽऽदानयोः पुनः।
विश्वासहननं नैव कार्यं न कपटं तथा॥ १९८॥

गुणसामर्थ्यरुच्यादि विदित्वैव जनस्य तु।
तदुचितेषु कार्येषु योजनीयो विचार्य सः॥ २०३॥

कार्यं बालैश्च बालाभिर्बाल्याद् विद्याऽभिप्रापणम्।
दुराचारः कुसङ्गश्च त्याज्यानि व्यसनानि च॥ २०९॥

सर्वैः सत्सङ्गिभिः कार्याः प्रीतिं वर्धयितुं हरौ।
उत्सवा भक्तिभावेन हर्षेणोल्लासतस्तथा॥ २४४॥

हरेर्गुरोर्विशिष्टानां प्रसङ्गानां दिनेषु च।
सत्सङ्गिभिर्यथाशक्ति कार्याः पर्वोत्सवा जनैः॥ २४६॥

सवाद्यं कीर्तनं कार्यं पर्वोत्सवेषु भक्तितः।
महिम्नश्च कथावार्ता करणीया विशेषतः॥ २४७॥

चैत्रशुक्लनवम्यां हि कार्यं श्रीरामपूजनम्।
कृष्णाऽष्टम्यां तु कर्तव्यं श्रावणे कृष्णपूजनम्॥ २४८॥

मन्दिराणि च शास्त्राणि सन्तस्तथा कदाचन।
न निन्द्यास्ते हि सत्कार्या यथाशक्ति यथोचितम्॥ २५४॥

ग्राहमुक्तौ सवस्त्रं हि कार्यं स्नानं समैर्जनैः।
त्यागिभिश्च हरिः पूज्यो देयं दानं गृहस्थितैः॥ २६६॥

आपत्तौ कष्टदायां तु रक्षा स्वस्य परस्य च।
यथैव स्यात् तथा कार्यं रक्षता भगवद्बलम्॥ २७०॥

एतत्सत्सङ्गदीक्षेति शास्त्रस्य प्रतिवासरम्।
कार्यः सत्सङ्गिभिः पाठ एकाग्रचेतसा जनैः॥ २९३॥

18. कुर्यात् 

प्रभुपूजोपयुक्तेन चन्दनेनोर्ध्वपुण्ड्रकम्।
भाले हि तिलकं कुर्यात् कुङ्कुमेन च चन्द्रकम्॥ ५३॥

अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्।
कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥ ५८॥

तदनु प्रणमेद् भक्तान् आदरान्न म्रभाव तः।
एवं पूजां समाप्यैव कुर्यात् स्वव्यावहारिकम्॥ ७५॥

कीर्तनं वा जपं कुर्यात् स्मृत्यादि वा यथारुचि।
गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥ ८५॥

सिद्धान्तं परमं दिव्यम् एतादृशं विचिन्तयन्।
सत्सङ्गं निष्ठया कुर्याद् आनन्दोत्साहपूर्वकम्॥ ११५॥

अक्षराधिपतेर्भक्तिं सधर्मामाचरेत् सदा।
धर्मेण रहितां नैव भक्तिं कुर्यात् कदाचन॥ ११७॥

सेवया कथया स्मृत्या ध्यानेन पठनादिभिः।
सुफलं समयं कुर्याद् भगवत्कीर्तनादिभिः॥ १२५॥

शृणुयान्न वदेन्नाऽपि वार्तां हीनां बलेन च।
बलपूर्णां सदा कुर्याद् वार्तां सत्सङ्गमास्थितः॥ १३८॥

प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।
गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥ १५३॥

जनसंबोधनं कुर्याद् यथाकार्यगुणादिकम्।
संवर्धयेत् तदुत्साहं यथाशक्ति सुकर्मसु॥ १६१॥

सेवां मातुः पितुः कुर्याद् गृही सत्सङ्गमाश्रितः।
प्रतिदिनं नमस्कारं तत्पादेषु निवेदयेत्॥ १७२॥

गृहे हि मधुरां वाणीं वदेद् वाचं त्यजेत् कटुम्।
कमपि पीडितं नैव प्रकुर्याद् मलिनाऽऽशयात्॥ १७५॥

स्वोपयोगाऽनुसारेण प्रकुर्यात् सङ्ग्रहं गृही।
अन्नद्रव्यधनादी नां काल शक्त्य नुसारतः॥ १९६॥

नैव विश्वासघातं हि कुर्यात् सत्सङ्गमाश्रितः।
पालयेद् वचनं दत्तं प्रतिज्ञातं न लङ्घयेत्॥ २००॥

प्रशास्ता पालयेद् धर्मान् नियता ये सुशासने।
लोकानां भरणं पुष्टिं कुर्यात् संस्काररक्षणम्॥ २०१॥

उत्साहाद् आदरात् कुर्यात् स्वाऽभ्यासं स्थिरचेतसा।
व्यर्थतां न नयेत्कालं विद्यार्थी व्यर्थकर्मसु॥ २१०॥

बाल्यादेव दृढीकुर्यात् सेवाविनम्रतादिकम्।
निर्बलतां भयं चाऽपि नैव गच्छेत् कदाचन॥ २११॥

बाल्यादेव हि सत्सङ्गं कुर्याद् भक्तिं च प्रार्थनाम्।
कार्या प्रतिदि नं पूजा पित्रोः पञ्चाङ्गवन्द ना॥ २१२॥

सत्फलोन्नायकं कुर्याद् उचितमेव साहसम्।
न कुर्यात् केवलं यद्धि स्वमनोलोकरञ्जकम्॥ २१४॥

नियतोद्यमकर्तव्ये नाऽऽलस्यम् आप्नुयात् क्वचित्।
श्रद्धां प्रीतिं हरौ कुर्यात् पूजां सत्सङ्गमन्वहम्॥ २१५॥

सङ्गोऽत्र बलवाँल्लोके यथासङ्गं हि जीवनम्।
सतां सङ्गम् अतः कुर्यात् कुसङ्गं सर्वथा त्यजेत्॥ २१६॥

भवेद् यो दृढनिष्ठावान् अक्षरपुरुषोत्तमे।
दृढभक्तिर्विवेकी च कुर्यात् तत्सङ्गमादरात्॥ २२९॥

आज्ञायाः पालने नित्यं सोत्साहं तत्परो दृढः।
निर्मानः सरलो यश्च कुर्यात् तत्सङ्गमादरात्॥ २३१॥

हरेर्गुरोश्चरित्रेषु दि व्येषु मा नुषेषु यः।
सस्नेहं दिव्यतादर्शी कुर्यात् तत्सङ्गमादरात्॥ २३२॥

तत्परोऽन्यगुणग्राहे विमुखो दुर्गुणोक्तितः।
सुहृद्भावी च सत्सङ्गे कुर्यात् तत्सङ्गमादरात्॥ २३३॥

लक्ष्यं यस्यैकमात्रं स्याद् गुरुहरिप्रसन्नता।
आचारेऽपि विचारेऽपि कुर्यात् तत्सङ्गमादरात्॥ २३४॥

स्वसंप्रदायग्रन्थानां यथाशक्ति यथारुचि।
संस्कृते प्राकृते वाऽपि कुर्यात् पठनपाठने॥ २३५॥

सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा।
यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥

तेषां स्थानविशेषाणां यात्रां कर्तुं य इच्छति।
तद्यात्रां स जनः कुर्याद् यथाशक्ति यथारुचि॥ २५९॥

न कश्चित् कस्यचित् कुर्याद् द्रोहं द्वेषं तथा जनः।
सेवन्तामादरं सर्वे सर्वदैव परस्परम्॥ ३०२॥

19. कर्तव्य

जात्या नैव महान् कोऽपि नैव न्यूनस्तथा यतः।
जात्या क्लेशो न कर्तव्यः सुखं सत्सङ्गमाचरेत्॥ १६॥

तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः।
नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥ ४३॥

ष्ठीवनं मलमूत्रादिविसर्जनं स्थलेषु च।
शास्त्रलोकनिषिद्धेषु न कर्तव्यं कदाचन॥ ४९॥

हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ।
तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥ ५९॥

स एकः परमोपास्य इष्टदेवो हि नः सदा।
तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥ ९७॥

सेवा हरेश्च भक्तानां कर्तव्या शुद्धभावतः।
महद्भाग्यं ममास्तीति मत्वा स्वमोक्षहेतुना॥ १२२॥

प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा।
कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥ १३४॥

ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये।
ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥ १३६॥

मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा।
कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥ १३७॥

अन्तर्दृष्टिश्च कर्तव्या प्रत्यहं स्थिरचेतसा।
किं कर्तुमागतोऽस्मीह किं कुर्वेऽहमिहेति च॥ १४५॥

मनुष्यो व्यसनी यः स्याद् निर्लज्जो व्यभिचारवान्।
तस्य सङ्गो न कर्तव्यः सत्सङ्गमाश्रि तैर्जनैः॥ १८६॥

कर्तव्यं लेखनं सम्यक् स्वस्याऽऽयस्य व्ययस्य च।
नियमा ननुसृत्यैव प्रशासनकृतान् सदा ॥ १९४॥

नियतोद्यमकर्तव्ये नाऽऽलस्यम् आप्नुयात् क्वचित्।
श्रद्धां प्रीतिं हरौ कुर्यात् पूजां सत्सङ्गमन्वहम्॥ २१५॥

साकृतिकं परब्रह्म मनुते यो निराकृति।
तस्य सङ्गो न कर्तव्यस्तादृग्ग्रन्थान् पठेन्नहि॥ २१९॥

जन्ममहोत्सवा नित्यं स्वामिनारायणप्रभोः।
ब्रह्माऽक्षरगुरूणां च कर्तव्या भक्तिभावतः॥ २४५॥

चैत्रशुक्लनवम्यां हि कार्यं श्रीरामपूजनम्।
कृष्णाऽष्टम्यां तु कर्तव्यं श्रावणे कृष्णपूजनम्॥ २४८॥

शिवरात्रौ हि कर्तव्यं पूजनं शङ्करस्य च।
गणेशं भाद्रशुक्लायां चतुर्थ्यां पूजयेत् तथा॥ २४९॥

परिरक्षेद् दृढां निष्ठाम् अक्षरपुरुषोत्तमे।
तथाऽपि नैव कर्तव्यं देवताऽन्तरनिन्दनम्॥ २५२॥

एकादश्या व्रतं नित्यं कर्तव्यं परमादरात्।
तद्दिने नैव भोक्तव्यं निषिद्धं वस्तु कर्हिचित्॥ २५६॥

आदित्यचन्द्रयोर्ग्राह-काले सत्सङ्गिभिः समैः।
परित्यज्य क्रियाः सर्वाः कर्तव्यं भजनं हरेः॥ २६४॥

निद्रां च भोजनं त्यक्त्वा तदैकत्रोपविश्य च।
कर्तव्यं ग्राहमुक्त्यन्तं भगवत्कीर्तनादिकम्॥ २६५॥

पठने चाऽसमर्थैस्तु श्रव्यं तत् प्रीतिपूर्वकम्।
आचरितुं च कर्तव्यः प्रयत्नः श्रद्धया तथा॥ २९४॥

20. करणीय 

कस्याऽपि ताडनं नैव करणीयं कदाचन।
अपशब्दाऽपमानादि-सूक्ष्महिंसाऽपि नैव च॥ ३८॥

यथा स्वधर्मरक्षा स्यात् तथैव वस्त्रधारणम्।
सत्सङ्गिनरनारीभिः करणीयं हि सर्वदा॥ ९४॥

सङ्गश्चारि यहीनायाः करणीयो नहि स्त्रियाः।
स्त्रीभिः स्वधर्मरक्षार्थं पाल्याश्च नियमा दृढम्॥ १८७॥

शक्या भगवतो यत्र भक्तिः स्वधर्मपालनम्।
तस्मिन् देशे निवासो हि करणीयः सुखेन च॥ २०४॥

सवाद्यं कीर्तनं कार्यं पर्वोत्सवेषु भक्तितः।
महिम्नश्च कथावार्ता करणीया विशेषतः॥ २४७॥

21 विधातव्य

प्रातः प्रतिदिनं सायं सर्वैः सत्सङ्गिभिर्जनैः।
आरार्तिक्यं विधातव्यं सस्तुति गृहमन्दिरे॥ ८१॥

सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।
अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥ १४०॥

स्वास्थ्यशिक्ष णसंरक्षा-विद्युदन्नजलादिक ैः।
सुव्यवस्था विधातव्या सर्वाऽभ्युद यहेतुना॥ २०२॥

22. क्वचित्

न कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्
दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥ १९१॥

नियतोद्यमकर्तव्ये नाऽऽलस्यम् आप्नुयात् क्वचित्
श्रद्धां प्रीतिं हरौ कुर्यात् पूजां सत्सङ्गमन्वहम्॥ २१५॥

23. यथारुचि / यथाशक्ति / यथाविधि / यथाकालं / यथोचितम

कीर्तनं वा जपं कुर्यात् स्मृत्यादि वा यथारुचि
गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥ ८५॥

पुरुषोत्तममूर्त्या तद्-मध्यखण्डे यथाविधि
सहितं स्थाप्यते मूर्तिरक्षरस्याऽपि ब्रह्मणः॥ ९१॥

प्रातः सायं यथाकालं सर्वसत्सङ्गिभिर्जनैः।
निकटं मन्दिरं गम्यं भक्त्या दर्शाय प्रत्यहम्॥ ९३॥

सदैवाऽऽदरणीया हि विद्वद्वरिष्ठशिक्षकाः।
यथाशक्ति च सत्कार्याः साधुवादादिकर्मणा॥ १६०॥

जनसंबोधनं कुर्याद् यथाकार्यगुणादिकम्।
संवर्धयेत् तदुत्साहं यथाशक्ति सुकर्मसु॥ १६१॥

संपाल्याः पुत्रपु यश्च सत्सङ्गशिक्ष णादि ना।
अन्ये सम्बन्धिनः सेव्या यथाशक्ति च भावतः॥ १७४॥

मिलित्वा भोजनं कार्यं गृहस्थैः स्वगृहे मुदा।
अतिथिर्हि यथाशक्ति संभाव्य आगतो गृहम्॥ १७६॥

अन्नफलादिभिश्चैव यथाशक्ति जलादिभिः।
पालिताः पशुपक्ष्याद्याः संभाव्या हि यथोचितम्॥ १९७॥

स्वसंप्रदायग्रन्थानां यथाशक्ति यथारुचि
संस्कृते प्राकृते वाऽपि कुर्यात् पठनपाठने॥ २३५॥

सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा।
यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥

हरेर्गुरोर्विशिष्टानां प्रसङ्गानां दिनेषु च।
सत्सङ्गिभिर्यथाशक्ति कार्याः पर्वोत्सवा जनैः॥ २४६॥

मन्दिराणि च शास्त्राणि सन्तस्तथा कदाचन।
न निन्द्यास्ते हि सत्कार्या यथाशक्ति यथोचितम्॥ २५४॥

तेषां स्थानविशेषाणां यात्रां कर्तुं य इच्छति।
तद्यात्रां स जनः कुर्याद् यथाशक्ति यथारुचि॥ २५९॥

अयोध्यां मथुरां काशीं केदारं बदरीं व्रजेत्।
रामेश्वरादि तीर्थं च यथाशक्ति यथारुचि॥ २६०॥

24. तदा

वार्धक्येन च रोगाद्यैरन्याऽऽपद्धेतुना तथा।
पूजार्थम् असमर्थश्चेत् तदाऽन्यैः कारयेत् स ताम्॥ ७७॥

उच्चैः स्वरैर्जय स्वामि-नारायणेति भक्तितः।
सतालिवादनं गेयं स्थिरेण चेतसा तदा॥ ८२॥

मानेर्ष्याकामक्रोधादि-दोषाऽऽवेगो भवेत् तदा
अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥ १५४॥

आपत्काले तु सम्प्राप्ते स्वीयवासस्थले तदा
तं देशं हि परित्यज्य स्थेयं देशान्तरे सुखम्॥ २०८॥

चान्द्रायणोपवासादिर्मन्त्रजपः प्रदक्षि णाः।
कथाश्रुतिर्दण्डवच्च प्रणामा अधिकास्तदा॥ २४१॥

सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा
यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥

गच्छेद् यदा दर्शनार्थं भक्तजनो हरेर्गुरोः।
रिक्तेन पाणिना नैव गच्छेत् तदा कदाचन॥ २६३॥

प्रायश्चित्तमनुष्ठेयं जाते त्वयोग्यवर्तने।
परमात्मप्रसादार्थं शुद्धेन भावतस्तदा॥ २६८॥

25. तत्र

सर्वेऽधिकारिणो मोक्षे गृहिणस्त्यागिनोऽपि च।
न न्यूनाऽधिकता तत्र सर्वे भक्ता यतः प्रभोः॥ १७॥

तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः।
नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥ ४३॥

मध्ये तु स्थापयेत्तत्र ह्यक्षरपुरुषोत्तमौ।
स्वामिनं हि गुणातीतं महाराजं च तत्परम्॥ ६१॥

संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।
कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥ ८६॥

मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा।
कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥ १३७॥

विद्याधनादिकं प्राप्तुं देशान्तरं गतेऽपि च।
सत्सङ्गमादरात् तत्र कुर्यान्नियमपालनम्॥ २०५॥

26 अक्षरब्रह्म

अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्।
कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥ ५८॥

गुणातीतसमारब्ध-परम्पराप्रतिष्ठितः।
प्रकटाऽक्षरब्रह्मैकः संप्रदायेऽस्ति नो गुरुः॥ ९९॥

अक्षरं ब्रह्म विज्ञेयं मन्त्रे स्वामीति शब्दतः।
नारायणेति शब्देन तत्परः पुरुषोत्तमः॥ ११०॥

सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।
अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥ १४०॥

स्वामिनारायणेनेह स्वयं यद्धि प्रसादि तम्।
गुरुभिश्चाऽक्षरब्रह्म-स्वरूपैर्यत् प्रसादितम्॥ २५८॥

अक्षरब्रह्मसाधर्म्यं संप्राप्य दासभावतः।
पुरुषोत्तमभक्तिर्हि मुक्तिरात्यन्तिकी मता॥ २९१॥

27 ब्रह्माऽक्षर

आश्रयेत् सहजानन्दं हरिं ब्रह्माऽक्षरं तथा।
गुणातीतं गुरुं प्रीत्या मुमुक्षुः स्वात्ममुक्तये॥ २०॥

नोत्तमो निर्विकल्पश्च निश्चयः परमात्मनः।
न स्वात्मब्रह्मभावोऽपि ब्रह्माऽक्षरं गुरुं विना॥ २३॥

साक्षाद् ब्रह्माऽक्षरं स्वामी गुणातीतः सनातनम्।
तस्य परम्पराऽद्याऽपि ब्रह्माऽक्षरस्य राजते॥ ९८॥

जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा।
परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥ १०२॥

परमात्मा परब्रह्म परं ब्रह्माऽक्षरात् सदा।
ब्रह्माऽपि सेवते तं च दासभावेन सर्वदा॥ १०५॥

ब्रह्माऽक्षरगुरुद्वारा भगवान् प्रकटः सदा।
सहितः सकलैश्वर्यैः परमाऽऽनन्दमर्पयन्॥ १०७॥

प्रीतिः कार्याऽऽत्मबुद्धिश्च ब्रह्माऽक्षरे गुरौ दृढा।
प्रत्यक्षभगवद्भावात् सेव्यो ध्येयः स भक्तितः॥ १०८॥

प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा।
कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥ १३४॥

ब्रह्माऽक्षरे गुरौ प्रीतिर्दृढैवाऽस्ति हि साधनम्।
ब्रह्मस्थितेः परिप्राप्तेः साक्षात्कारस्य च प्रभोः॥ १३५॥

परमात्मपरब्रह्म-स्वामिनारायणप्रभोः।
ब्रह्माऽक्षरस्वरूपस्य गुणातीतगुरोस्तथा॥ १४१॥

जन्ममहोत्सवा नित्यं स्वामिनारायणप्रभोः।
ब्रह्माऽक्षरगुरूणां च कर्तव्या भक्तिभावतः॥ २४५॥

त्यागाऽऽश्रमेच्छुना दीक्षा ग्राह्या ब्रह्माऽक्षराद् गुरोः।
ब्रह्मचर्यं सदा सर्वैः पाल्यं त्यागिभि रष्टधा॥ २८१॥

28 अक्षरगुरु

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।
अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात्॥ १९॥

ब्रह्माऽक्षरगुरुद्वारा भगवान् प्रकटः सदा।
सहितः सकलैश्वर्यैः परमाऽऽनन्दमर्पयन्॥ १०७॥

29 ब्रह्मगुरु

नैवाऽपि तत्त्वतो भक्तिः परमानन्दप्रापणम्।
नाऽपि त्रिविधतापानां नाशो ब्रह्मगुरुं विना॥ २४॥

हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ।
तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥ ५९॥

ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये।
ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥ १३६॥

आज्ञां भगवतो नित्यं ब्रह्मगुरोश्च पालयेत्।
ज्ञात्वा तदनुवृत्तिं च तामेवाऽनुसरेद् दृढम्॥ १४३॥

30. मिथः OR समैः

न न्यूनाऽधिकता कार्या वर्णाऽऽधारेण कर्हिचित्।
त्यक्त्वा स्ववर्णमानं च सेवा कार्या मिथः समैः॥ १५॥

आदित्यचन्द्रयोर्ग्राह-काले सत्सङ्गिभिः समैः
परित्यज्य क्रियाः सर्वाः कर्तव्यं भजनं हरेः॥ २६४॥

ग्राहमुक्तौ सवस्त्रं हि कार्यं स्नानं समैर्जनैः।
त्यागिभिश्च हरिः पूज्यो देयं दानं गृहस्थितैः॥ २६६॥

ऐक्यं मिथः सुहृद्भावो मैत्री कारुण्यमेव च।
सहनशीलता स्नेहः सर्वजनेषु वर्धताम्॥ ३०६॥

31. प्रसन्न

अक्षरमहमित्येव ं भक्त्या प्रसन्नचेतसा।
पुरुषोत्तमदासोऽस्मि मन्त्रमेतं वदेच्छुचिम्॥ ५७॥

प्रसन्नतां समावाप्तुं स्वामिनारायणप्रभोः।
गुणातीतगुरूणां च सत्सङ्गमाश्रयेत् सदा॥ १२७॥

स्पर्धया द्वेषतो नैव न लौकिकफलेच्छया।
श्रद्धया शुद्धभावेन कार्यं प्रसन्नताधिया॥ १३०॥

एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।
प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥

लक्ष्यं यस्यैकमात्रं स्याद् गुरुहरिप्रसन्नता
आचारेऽपि विचारेऽपि कुर्यात् तत्सङ्गमादरात्॥ २३४॥

इत्येवमादि रूपेण श्रद्धया प्रीतिपूर्वकम्।
हरिप्रसन्नतां प्राप्तुं विशेषां भक्तिमाचरेत्॥ २४२॥

हरेः प्रसन्नतां प्राप्य तत्कृपाभाजनो भवेत्।
जीवन्नेव स्थितिं ब्राह्मीं शास्त्रोक्तामाप्नुयात् स च॥ २८९॥

भवन्तु बलिनः सर्वे भक्ताश्च धर्मपालने।
आप्नुयुः सहजानन्द-परात्मनः प्रसन्नताम्॥ ३०४॥

32. चिन्तय

ततः पूजाऽधिकाराय भक्तः सत्सङ्गमाश्रितः।
कुर्यादात्मविचारं च प्रतापं चिन्तयन् हरेः॥ ५६॥

ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्।
व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥ ६८॥

सिद्धान्तं परमं दिव्यम् एतादृशं विचिन्तयन्
सत्सङ्गं निष्ठया कुर्याद् आनन्दोत्साहपूर्वकम्॥ ११५॥

संप्राप्याऽक्षररूपत्वं भजेयं पुरुषोत्तमम्।
प्रत्यहं चिन्तयेदेवं स्वीयलक्ष्यमतन्द्रितः॥ १४६॥

एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्
प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥

मानेर्ष्याकामक्रोधादि-दोषाऽऽवेगो भवेत् तदा।
अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥ १५४॥

33. आज्ञोपासन

शास्त्रेऽस्मिञ्ज्ञापिता स्पष्टम् आज्ञोपासनपद्धतिः।
परमात्म-परब्रह्म-सहजानन्द-दर्शिता॥ ११॥

आज्ञोपासनसिद्धान्ताः सर्वजीवहितावहाः।
दुःखविनाशका एते परमसुखदायकाः॥ २८७॥

एतच्छास्त्रानुसारेण यः प्रीत्या श्रद्धया जनः।
आज्ञोपासनयोर्दार्ढ्यं प्रकुर्यात् स्वस्य जीवने॥ २८८॥

संक्षिप्याऽत्र कृतं ह्येवम् आज्ञोपासनवर्णनम्।
तद्विस्तरं विजानीयात् सांप्रदायिकशास्त्रतः॥ २९२॥

34. विधः

आश्रयदीक्षामन्त्रश्चैवंविधः -
धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।
अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात्॥ १९॥

आह्वानमन्त्रश्चैवंविधः -
उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।
गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥ ६४॥

पुनरागमनमन्त्रश्चैवंविधः -
भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।
गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥ ७३॥

35. Related Slokas

35.1

सुराभङ्गातमालादि यद् यद् भवेद्धि मादकम्।
तद् भक्षयेत् पिबेन्नैव धूम्रपानमपि त्यजेत्॥ २७॥

भङ्गासुरादिपानं वा द्यूतादिक्रीडनं तथा।
गालिदानादिकं नैव पर्वस्वपि समाचरेत्॥ ११९॥

35.2

धनद्रव्यधरादीनां सदाऽऽदानप्रदानयोः।
नियमा लेखसाक्ष्यादेः पालनीया अवश्यतः॥ १८९॥

स्वोपयोगाऽनुसारेण प्रकुर्यात् सङ्ग्रहं गृही।
अन्नद्रव्यधनादीनां काल शक्त्य नुसारतः॥ १९६॥

अन्नफलादिभिश्चैव यथाशक्ति जलादिभिः।
पालिताः पशुपक्ष्याद्याः संभाव्या हि यथोचितम्॥ १९७॥

धनद्रव्यधरादीनां प्रदानाऽऽदानयोः पुनः।
विश्वासहननं नैव कार्यं न कपटं तथा॥ १९८॥

विद्याधनादिकं प्राप्तुं देशान्तरं गतेऽपि च।
सत्सङ्गमादरात् तत्र कुर्यान्नियमपालनम्॥ २०५॥

35.3

यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः।
निश्चयेन तरिष्यामि दुःखजातं हि तद्बलात्॥ ४७॥

अहो इहैव नः प्राप्तावक्षरपुरुषोत्तमौ।
तत्प्राप्तिगौरवान्नित्यं सत्सङ्गानन्दमाप्नुयात्॥ १२८॥

35.4

लौकिकं त्वविचार्यैव सहसा कर्म नाऽऽचरेत्।
फलादिकं विचार्यैव विवेकेन तद् आचरेत्॥ १९२॥

सत्फलोन्नायकं कुर्याद् उचितमेव साहसम्।
न कुर्यात् केवलं यद्धि स्वमनोलोकरञ्जकम्॥ २१४॥

35.5

तेषु मायापरौ नित्यम् अक्षरपुरुषोत्तमौ।
जीवानामीश्वराणां च मुक्तिस्तद्योगतो भवेत्॥ १०४॥

दृश्यो न मानुषो भावो भगवति तथा गुरौ।
मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥ १३१॥

35.6

मरणादिप्र सङ्गेषु कथाभजनकीर्तनम्।
कार्यं विशेषतः स्मार्यो ह्यक्षरपुरुषोत्तमः॥ १७७॥

जन्मनो मरणस्या ऽपि विधयः सूतकादयः।
सत्सङ्गरीतिमाश्रित्य पाल्याः श्राद्धादयस्तथा॥ २६७॥

शुभाऽशुभप्रसङ्गेषु महिमसहितं जनः।
पवित्रां सहजानन्द-नामावलिं पठेत् तथा॥ २७६॥

35.7

मनुष्यो व्यसनी यः स्याद् निर्लज्जो व्यभिचारवान्।
तस्य सङ्गो न कर्त व्यः सत्सङ्गमाश्रि तैर्जनैः॥ १८६॥

न कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्।
दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥ १९१॥

217 to 228

35.8

स्वसंप्रदायग्रन्थानां यथाशक्ति यथारुचि।
संस्कृते प्राकृते वाऽपि कुर्यात् पठनपाठने॥ २३५॥

सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा।
यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥

35.9

प्रायश्चित्तमनुष्ठेयं जाते त्वयोग्यवर्तने।
परमात्मप्रसादार्थं शुद्धेन भावतस्तदा॥ २६८॥

देशं कालमवस्थां च स्वशक्तिमनुसृत्य च।
आचारो व्यवहारश्च प्रायश्चित्तं विधीयताम्॥ २७३॥

36. मन्त्र

स्वामिनारायणेऽनन्य-दृढपरमभक्तये।
गृहीत्वाऽऽश्रयदीक्षाया मन्त्रं सत्सङ्गमाप्नुयात्॥ १८॥

उरसि हस्तयोश्चन्द्रं तिलकं चन्दनेन च।
स्वामिनारायणं मन्त्रं जपन् कुर्याद् गुरुं स्मरन्॥ ५४॥

मालामावर्त येद् मन्त्रं स्वामिनारायणं जपन्।
महिम्ना दर्शनं कुर्वन् मूर् तीनां स्थिरचेतसा॥ ६६॥

दिव्यभावेन भक्त्या च तदनु प्रार्थयेज्जपन्।
स्वामिनारायणं मन्त्रं शुभसङ्कल्पपूर्तये॥ ७१॥

स्वामिनारायणो मन्त्रो दिव्यश्चाऽलौकिकः शुभः।
जप्योऽयं सकलैर्भक्तैर्दत्तोऽयं हरिणा स्वयम्॥ १०९॥

अक्षरं ब्रह्म विज्ञेयं मन्त्रे स्वामीति शब्दतः।
नारायणेति शब्देन तत्परः पुरुषोत्तमः॥ ११०॥

37. प्रार्थन

दिव्यभावेन भक्त्या च तदनु प्रार्थयेज्जपन्।
स्वामिनारायणं मन्त्रं शुभसङ्कल्पपूर्तये॥ ७१॥

भक्तिप्रार्थनसत्सङ्गहेतुना प्रतिवासरम्।
सुन्दरं मन्दिरं स्थाप्यं सर्वैः सत्सङ्गिभिर्गृहे॥ ७९॥

यैव रसवती पक्वा मन्दिरे तां निवेदयेत्।
उच्चार्य प्रार्थनं भक्त्या ततः प्रसादितं जमेत्॥ ८३॥

प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।
गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥ १५३॥

बाल्यादेव हि सत्सङ्गं कुर्याद् भक्तिं च प्रार्थनाम्
कार्या प्रतिदि नं पूजा पित्रोः पञ्चाङ्गवन्द ना॥ २१२॥

विपत्तिषु धरेद्धैर्यं प्रार्थनं यत्नमाचरेत्।
भजेत दृढविश्वासम् अक्षरपुरुषोत्तमे॥ २८०॥

38. परमात्म-परब्रह्म / परमात्मा परं ब्रह्म