गच्छेद् यदा दर्शनार्थं भक्तजनो हरेर्गुरोः।
रिक्तेन पाणिना नैव गच्छेत् तदा कदाचन॥ २६३॥
धनं तु त्यागिभिस्त्याज्यं रक्ष्यं स्वीयतया न च।
स्पृश्यं नैवाऽपि वित्तं च त्यागिभिस्तु कदाचन॥ २८२॥
11. सदैव
सर्वमिदं हि सत्सङ्गाल्लभ्यते निश्चितं जनैः।
अतः सदैव सत्सङ्गः करणीयो मुमुक्षुभिः॥ ५॥
काष्ठजां द्विगुणां मालां कण्ठे सदैव धारयेत्।
सत्सङ्गं हि समाश्रित्य सत्सङ्गनियमांस्तथा॥ २१॥
निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्।
विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥ ११६॥
मया सह सदैवाऽस्ति सर्वदोषनिवारकः।
स्वामिनारायणः साक्षाद् एवं बलं च धारयेत्॥ १५५॥
सदैवाऽऽदरणीया हि विद्वद्वरिष्ठशिक्षकाः।
यथाशक्ति च सत्कार्याः साधुवादादिकर्मणा॥ १६०॥
त्यागिभिः प्रीतिवृद्ध्यर्थम् अक्षरपुरुषोत्तमे।
निष्कामत्वं सदा धार्यं निर्लोभत्वं सदैव च॥ २८३॥
12. सर्वदा
यथा स्वधर्मरक्षा स्यात् तथैव वस्त्रधारणम्।
सत्सङ्गिनरनारीभिः करणीयं हि सर्वदा॥ ९४॥
स एकः परमोपास्य इष्टदेवो हि नः सदा।
तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥ ९७॥
जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा।
परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥ १०२॥
परमात्मा परब्रह्म परं ब्रह्माऽक्षरात् सदा।
ब्रह्माऽपि सेवते तं च दासभावेन सर्वदा॥ १०५॥
नेयो न व्यर्थतां कालः सत्सङ्गं भजनं विना।
आलस्यं च प्रमादादि परित्याज्यं हि सर्वदा॥ १२३॥
तदर्पितस्य दिव्यस्य सिद्धान्तस्य च सर्वदा।
भक्तानां तच्छ्रितानां च पक्षो ग्राह्यो विवेकतः॥ १४२॥
विवादः कलहो वाऽपि नैव कार्यः कदाचन।
वर्तितव्यं विवेकेन रक्ष्या शान्तिश्च सर्वदा॥ १७०॥
आपत्कालेऽन्यरक्षार्थं स्पर्शे दोषो न विद्यते।
अन्यथा नियमाः पाल्या अनापत्तौ तु सर्वदा॥ १८४॥
धर्मा वा संप्रदाया वा येऽन्ये तदनुयायिनः।
न ते द्वेष्या न ते निन्द्या आदर्तव्याश्च सर्वदा॥ २५३॥
नि यमम नुसृत्यैव सत्सङ्ग स्य तु मन ्दिरे।
वस्त्राणि परिधेयानि स्त्रीभिः पुम्भिश्च सर्वदा॥ २६२॥
स्वाऽऽत्मब्रह्मैकतां प्राप्य स्वामिनारायणो हरिः।
सर्वदा भजनीयो हि त्यागिभिर्दिव्यभावतः॥ २८५॥
न कश्चित् कस्यचित् कुर्याद् द्रोहं द्वेषं तथा जनः।
सेवन्तामादरं सर्वे सर्वदैव परस्परम्॥ ३०२॥
13. अतः
सर्वमिदं हि सत्सङ्गाल्लभ्यते निश्चितं जनैः।
अतः सदैव सत्सङ्गः करणीयो मुमुक्षुभिः॥ ५॥
अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्।
सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥ २५॥
आत्मघातोऽपि हिंसैव न कार्योऽतः कदाचन।
पतनगलबन्धाद्यैर्विषभक्षादिभिस्तथा॥ ४१॥
अत एवाऽस्मि धन्योऽहं परमभाग्यवानहम्।
कृतार्थश्चैव निःशङ्को निश्चिन्तोऽस्मि सदा सुखी॥ १४८॥
सङ्गोऽत्र बलवाँल्लोके यथासङ्गं हि जीवनम्।
सतां सङ्गम् अतः कुर्यात् कुसङ्गं सर्वथा त्यजेत्॥ २१६॥
अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्।
महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥ २३८॥
14. यतः
जात्या नैव महान् कोऽपि नैव न्यूनस्तथा यतः।
जात्या क्लेशो न कर्तव्यः सुखं सत्सङ्गमाचरेत्॥ १६॥
सर्वेऽधिकारिणो मोक्षे गृहिणस्त्यागिनोऽपि च।
न न्यूनाऽधिकता तत्र सर्वे भक्ता यतः प्रभोः॥ १७॥
सर्वं दुर्व्यसनं त्याज्यं सर्वैः सत्सङ्गिभिः सदा।
अनेकरोगदुःखानां कारणं व्यसनं यतः॥ २६॥
यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः।
निश्चयेन तरिष्यामि दुःखजातं हि तद्बलात्॥ ४७॥
वर्तत उत्तमो भक्तो ब्रह्म भगवतोऽक्षरम्।
नित्यं मायापरं नित्यं हरिसेवारतं यतः॥ ८९॥
दृश्यो न मानुषो भावो भगवति तथा गुरौ।
मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥ १३१॥
सुखे नोच्छृङ्खलो भूयाद् दुःखे नोद्वेगमाप्नुयात्।
स्वामिनारायणेच्छातः सर्वं प्रवर्तते यतः॥ १६९॥
15. ततः
सत्सङ्गिभिः प्रबोद्धव्यं पूर्वं सूर्योदयात् सदा।
ततः स्नानादिकं कृत्वा धर्तव्यं शुद्धवस्त्रकम्॥ ५१॥
पूर्वस्यामुत्तरस्यां वा दिशि कृत्वा मुखं ततः।
शुद्धाऽऽसनोपविष्टः सन् नित्यपूजां समाचरेत्॥ ५२॥
ततः पूजाऽधिकाराय भक्तः सत्सङ्गमाश्रितः।
कुर्यादात्मविचारं च प्रतापं चिन्तयन् हरेः॥ ५६॥
स्थापयेच्चित्रमूर् तीश्च शुचिवस्त्रोपरि ततः।
दर्शनं स्याद् यथा सम्यक् तथा हि भक्तिभावतः॥ ६०॥
एकपादोत्थितो भूत्वा मालाम् आवर्तयेत् ततः।
तपस ऊर्ध्वहस्तः सन् कुर्वाणो मूर्तिदर्शनम्॥ ६७॥
ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्।
व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥ ६८॥
साष्टाङ्गा दण्डवत् कार्याः प्रणामाः पुरुषैस्ततः।
नारीभिस्तूपविश्यैव पञ्चाङ्गा दासभावतः॥ ६९॥
ततः सत्सङ्गदार्ढ्याय शास्त्रं पठ्यं च प्रत्यहम्।
आदेशाश्चोपदेशाश्च यत्र सन्ति हरेर्गुरोः॥ ७४॥
यैव रसवती पक्वा मन्दिरे तां निवेदयेत्।
उच्चार्य प्रार्थनं भक्त्या ततः प्रसादितं जमेत्॥ ८३॥
कुर्याद्धि भजनं कुर्वन् क्रिया आज्ञाऽनुसारतः।
क्रियाबन्धः क्रियाभारः क्रियामानस्ततो नहि॥ १२४॥
16. चेतसा
अक्षरमहमित्येव ं भक्त्या प्रसन्नचेतसा।
पुरुषोत्तमदासोऽस्मि मन्त्रमेतं वदेच्छुचिम्॥ ५७॥
अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्।
कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥ ५८॥
मालामावर्त येद् मन्त्रं स्वामिनारायणं जपन्।
महिम्ना दर्शनं कुर्वन् मूर् तीनां स्थिरचेतसा॥ ६६॥
उच्चैः स्वरैर्जय स्वामि-नारायणेति भक्तितः।
सतालिवादनं गेयं स्थिरेण चेतसा तदा॥ ८२॥
कीर्तनं वा जपं कुर्यात् स्मृत्यादि वा यथारुचि।
गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥ ८५॥
अन्तर्दृष्टिश्च कर्तव्या प्रत्यहं स्थिरचेतसा।
किं कर्तुमागतोऽस्मीह किं कुर्वेऽहमिहेति च॥ १४५॥
एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।
प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥
उत्साहाद् आदरात् कुर्यात् स्वाऽभ्यासं स्थिरचेतसा।
व्यर्थतां न नयेत्कालं विद्यार्थी व्यर्थकर्मसु॥ २१०॥
अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्।
महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥ २३८॥
एतत्सत्सङ्गदीक्षेति शास्त्रस्य प्रतिवासरम्।
कार्यः सत्सङ्गिभिः पाठ एकाग्रचेतसा जनैः॥ २९३॥
17. कार्या / कार्यः / कार्यं
न न्यूनाऽधिकता कार्या वर्णाऽऽधारेण कर्हिचित्।
त्यक्त्वा स्ववर्णमानं च सेवा कार्या मिथः समैः॥ १५॥
मनुष्याणां पशूनां वा मत्कुणादेश्च पक्षिणाम्।
केषाञ्चिज्जीवजन्तूनां हिंसा कार्या न कर्हिचित्॥ ३३॥
तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः।
नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥ ४३॥
साष्टाङ्गा दण्डवत् कार्याः प्रणामाः पुरुषैस्ततः।
नारीभिस्तूपविश्यैव पञ्चाङ्गा दासभावतः॥ ६९॥
प्रणामो दण्डवच्चैकः क्षमायाचनपूर्वकम्।
भक्तद्रोहनिवारार्थं कार्योऽधिको हि प्रत्यहम्॥ ७०॥
संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।
कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥ ८६॥
प्रीतिः कार्याऽऽत्मबुद्धिश्च ब्रह्माऽक्षरे गुरौ दृढा।
प्रत्यक्षभगवद्भावात् सेव्यो ध्येयः स भक्तितः॥ १०८॥
निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्।
विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥ ११६॥
स्वदुर्गुणान् अपाकर्तुं संप्राप्तुं सद्गुणांस्तथा।
सत्सङ्गाऽऽश्रयणं कार्यं स्वस्य परममुक्तये॥ १२६॥
सेवाभक्तिकथाध्यानतपोयात्रादि साधनम्।
मानतो दम्भतो नैव कार्यं नैवेर्ष्यया तथा॥ १२९॥
स्पर्धया द्वेषतो नैव न लौकिकफलेच्छया।
श्रद्धया शुद्धभावेन कार्यं प्रसन्नताधिया॥ १३०॥
कार्यं लीलाचरित्राणां स्वामिनारायणप्रभोः।
श्रवणं कथनं पाठो मननं निदिध्यासनम्॥ १३३॥
वार्ता कार्या महिम्नो हि ब्रह्मपरमब्रह्मणोः।
तत्सम्बन्धवतां चाऽपि सस्नेहमादरात् सदा॥ १३९॥
एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।
प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥
आचारो वा विचारो वा तादृक् कार्यो न कर्हिचित्।
अन्येषाम् अहितं दुःखं येन स्यात् क्लेशवर्धनम्॥ १६७॥
सुहृद्भावेन भक्तानां शुभगुणगणान् स्मरेत्।
न ग्राह्योऽवगुणस्तेषां द्रोहः कार्यो न सर्वथा॥ १६८॥
विवादः कलहो वाऽपि नैव कार्यः कदाचन।
वर्तितव्यं विवेकेन रक्ष्या शान्तिश्च सर्वदा॥ १७०॥
मिलित्वा भोजनं कार्यं गृहस्थैः स्वगृहे मुदा।
अतिथिर्हि यथाशक्ति संभाव्य आगतो गृहम्॥ १७६॥
मरणादिप्र सङ्गेषु कथाभजनकीर्तनम्।
कार्यं विशेषतः स्मार्यो ह्यक्षरपुरुषोत्तमः॥ १७७॥
न कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्।
दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥ १९१॥
लुञ्चा कदापि न ग्राह्या कैश्चिदपि जनैरि ह।
नैव कार्यो व्ययो व्यर्थः कार्यः स्वाऽऽयाऽनुसारतः॥ १९३॥
धनद्रव्यधरादीनां प्रदानाऽऽदानयोः पुनः।
विश्वासहननं नैव कार्यं न कपटं तथा॥ १९८॥
गुणसामर्थ्यरुच्यादि विदित्वैव जनस्य तु।
तदुचितेषु कार्येषु योजनीयो विचार्य सः॥ २०३॥
कार्यं बालैश्च बालाभिर्बाल्याद् विद्याऽभिप्रापणम्।
दुराचारः कुसङ्गश्च त्याज्यानि व्यसनानि च॥ २०९॥
सर्वैः सत्सङ्गिभिः कार्याः प्रीतिं वर्धयितुं हरौ।
उत्सवा भक्तिभावेन हर्षेणोल्लासतस्तथा॥ २४४॥
हरेर्गुरोर्विशिष्टानां प्रसङ्गानां दिनेषु च।
सत्सङ्गिभिर्यथाशक्ति कार्याः पर्वोत्सवा जनैः॥ २४६॥
सवाद्यं कीर्तनं कार्यं पर्वोत्सवेषु भक्तितः।
महिम्नश्च कथावार्ता करणीया विशेषतः॥ २४७॥
चैत्रशुक्लनवम्यां हि कार्यं श्रीरामपूजनम्।
कृष्णाऽष्टम्यां तु कर्तव्यं श्रावणे कृष्णपूजनम्॥ २४८॥
मन्दिराणि च शास्त्राणि सन्तस्तथा कदाचन।
न निन्द्यास्ते हि सत्कार्या यथाशक्ति यथोचितम्॥ २५४॥
ग्राहमुक्तौ सवस्त्रं हि कार्यं स्नानं समैर्जनैः।
त्यागिभिश्च हरिः पूज्यो देयं दानं गृहस्थितैः॥ २६६॥
आपत्तौ कष्टदायां तु रक्षा स्वस्य परस्य च।
यथैव स्यात् तथा कार्यं रक्षता भगवद्बलम्॥ २७०॥
एतत्सत्सङ्गदीक्षेति शास्त्रस्य प्रतिवासरम्।
कार्यः सत्सङ्गिभिः पाठ एकाग्रचेतसा जनैः॥ २९३॥
18. कुर्यात्
प्रभुपूजोपयुक्तेन चन्दनेनोर्ध्वपुण्ड्रकम्।
भाले हि तिलकं कुर्यात् कुङ्कुमेन च चन्द्रकम्॥ ५३॥
अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्।
कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥ ५८॥
तदनु प्रणमेद् भक्तान् आदरान्न म्रभाव तः।
एवं पूजां समाप्यैव कुर्यात् स्वव्यावहारिकम्॥ ७५॥
कीर्तनं वा जपं कुर्यात् स्मृत्यादि वा यथारुचि।
गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥ ८५॥
सिद्धान्तं परमं दिव्यम् एतादृशं विचिन्तयन्।
सत्सङ्गं निष्ठया कुर्याद् आनन्दोत्साहपूर्वकम्॥ ११५॥
अक्षराधिपतेर्भक्तिं सधर्मामाचरेत् सदा।
धर्मेण रहितां नैव भक्तिं कुर्यात् कदाचन॥ ११७॥
सेवया कथया स्मृत्या ध्यानेन पठनादिभिः।
सुफलं समयं कुर्याद् भगवत्कीर्तनादिभिः॥ १२५॥
शृणुयान्न वदेन्नाऽपि वार्तां हीनां बलेन च।
बलपूर्णां सदा कुर्याद् वार्तां सत्सङ्गमास्थितः॥ १३८॥
प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।
गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥ १५३॥
जनसंबोधनं कुर्याद् यथाकार्यगुणादिकम्।
संवर्धयेत् तदुत्साहं यथाशक्ति सुकर्मसु॥ १६१॥
सेवां मातुः पितुः कुर्याद् गृही सत्सङ्गमाश्रितः।
प्रतिदिनं नमस्कारं तत्पादेषु निवेदयेत्॥ १७२॥
गृहे हि मधुरां वाणीं वदेद् वाचं त्यजेत् कटुम्।
कमपि पीडितं नैव प्रकुर्याद् मलिनाऽऽशयात्॥ १७५॥
स्वोपयोगाऽनुसारेण प्रकुर्यात् सङ्ग्रहं गृही।
अन्नद्रव्यधनादी नां काल शक्त्य नुसारतः॥ १९६॥
नैव विश्वासघातं हि कुर्यात् सत्सङ्गमाश्रितः।
पालयेद् वचनं दत्तं प्रतिज्ञातं न लङ्घयेत्॥ २००॥
प्रशास्ता पालयेद् धर्मान् नियता ये सुशासने।
लोकानां भरणं पुष्टिं कुर्यात् संस्काररक्षणम्॥ २०१॥
उत्साहाद् आदरात् कुर्यात् स्वाऽभ्यासं स्थिरचेतसा।
व्यर्थतां न नयेत्कालं विद्यार्थी व्यर्थकर्मसु॥ २१०॥
बाल्यादेव दृढीकुर्यात् सेवाविनम्रतादिकम्।
निर्बलतां भयं चाऽपि नैव गच्छेत् कदाचन॥ २११॥
बाल्यादेव हि सत्सङ्गं कुर्याद् भक्तिं च प्रार्थनाम्।
कार्या प्रतिदि नं पूजा पित्रोः पञ्चाङ्गवन्द ना॥ २१२॥
सत्फलोन्नायकं कुर्याद् उचितमेव साहसम्।
न कुर्यात् केवलं यद्धि स्वमनोलोकरञ्जकम्॥ २१४॥
नियतोद्यमकर्तव्ये नाऽऽलस्यम् आप्नुयात् क्वचित्।
श्रद्धां प्रीतिं हरौ कुर्यात् पूजां सत्सङ्गमन्वहम्॥ २१५॥
सङ्गोऽत्र बलवाँल्लोके यथासङ्गं हि जीवनम्।
सतां सङ्गम् अतः कुर्यात् कुसङ्गं सर्वथा त्यजेत्॥ २१६॥
भवेद् यो दृढनिष्ठावान् अक्षरपुरुषोत्तमे।
दृढभक्तिर्विवेकी च कुर्यात् तत्सङ्गमादरात्॥ २२९॥
आज्ञायाः पालने नित्यं सोत्साहं तत्परो दृढः।
निर्मानः सरलो यश्च कुर्यात् तत्सङ्गमादरात्॥ २३१॥
हरेर्गुरोश्चरित्रेषु दि व्येषु मा नुषेषु यः।
सस्नेहं दिव्यतादर्शी कुर्यात् तत्सङ्गमादरात्॥ २३२॥
तत्परोऽन्यगुणग्राहे विमुखो दुर्गुणोक्तितः।
सुहृद्भावी च सत्सङ्गे कुर्यात् तत्सङ्गमादरात्॥ २३३॥
लक्ष्यं यस्यैकमात्रं स्याद् गुरुहरिप्रसन्नता।
आचारेऽपि विचारेऽपि कुर्यात् तत्सङ्गमादरात्॥ २३४॥
स्वसंप्रदायग्रन्थानां यथाशक्ति यथारुचि।
संस्कृते प्राकृते वाऽपि कुर्यात् पठनपाठने॥ २३५॥
सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा।
यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥
तेषां स्थानविशेषाणां यात्रां कर्तुं य इच्छति।
तद्यात्रां स जनः कुर्याद् यथाशक्ति यथारुचि॥ २५९॥
न कश्चित् कस्यचित् कुर्याद् द्रोहं द्वेषं तथा जनः।
सेवन्तामादरं सर्वे सर्वदैव परस्परम्॥ ३०२॥
19. कर्तव्य
जात्या नैव महान् कोऽपि नैव न्यूनस्तथा यतः।
जात्या क्लेशो न कर्तव्यः सुखं सत्सङ्गमाचरेत्॥ १६॥
तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः।
नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥ ४३॥
ष्ठीवनं मलमूत्रादिविसर्जनं स्थलेषु च।
शास्त्रलोकनिषिद्धेषु न कर्तव्यं कदाचन॥ ४९॥
हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ।
तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥ ५९॥
स एकः परमोपास्य इष्टदेवो हि नः सदा।
तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥ ९७॥
सेवा हरेश्च भक्तानां कर्तव्या शुद्धभावतः।
महद्भाग्यं ममास्तीति मत्वा स्वमोक्षहेतुना॥ १२२॥
प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा।
कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥ १३४॥
ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये।
ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥ १३६॥
मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा।
कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥ १३७॥
अन्तर्दृष्टिश्च कर्तव्या प्रत्यहं स्थिरचेतसा।
किं कर्तुमागतोऽस्मीह किं कुर्वेऽहमिहेति च॥ १४५॥
मनुष्यो व्यसनी यः स्याद् निर्लज्जो व्यभिचारवान्।
तस्य सङ्गो न कर्तव्यः सत्सङ्गमाश्रि तैर्जनैः॥ १८६॥
कर्तव्यं लेखनं सम्यक् स्वस्याऽऽयस्य व्ययस्य च।
नियमा ननुसृत्यैव प्रशासनकृतान् सदा ॥ १९४॥
नियतोद्यमकर्तव्ये नाऽऽलस्यम् आप्नुयात् क्वचित्।
श्रद्धां प्रीतिं हरौ कुर्यात् पूजां सत्सङ्गमन्वहम्॥ २१५॥
साकृतिकं परब्रह्म मनुते यो निराकृति।
तस्य सङ्गो न कर्तव्यस्तादृग्ग्रन्थान् पठेन्नहि॥ २१९॥
जन्ममहोत्सवा नित्यं स्वामिनारायणप्रभोः।
ब्रह्माऽक्षरगुरूणां च कर्तव्या भक्तिभावतः॥ २४५॥
चैत्रशुक्लनवम्यां हि कार्यं श्रीरामपूजनम्।
कृष्णाऽष्टम्यां तु कर्तव्यं श्रावणे कृष्णपूजनम्॥ २४८॥
शिवरात्रौ हि कर्तव्यं पूजनं शङ्करस्य च।
गणेशं भाद्रशुक्लायां चतुर्थ्यां पूजयेत् तथा॥ २४९॥
परिरक्षेद् दृढां निष्ठाम् अक्षरपुरुषोत्तमे।
तथाऽपि नैव कर्तव्यं देवताऽन्तरनिन्दनम्॥ २५२॥
एकादश्या व्रतं नित्यं कर्तव्यं परमादरात्।
तद्दिने नैव भोक्तव्यं निषिद्धं वस्तु कर्हिचित्॥ २५६॥
आदित्यचन्द्रयोर्ग्राह-काले सत्सङ्गिभिः समैः।
परित्यज्य क्रियाः सर्वाः कर्तव्यं भजनं हरेः॥ २६४॥
निद्रां च भोजनं त्यक्त्वा तदैकत्रोपविश्य च।
कर्तव्यं ग्राहमुक्त्यन्तं भगवत्कीर्तनादिकम्॥ २६५॥
पठने चाऽसमर्थैस्तु श्रव्यं तत् प्रीतिपूर्वकम्।
आचरितुं च कर्तव्यः प्रयत्नः श्रद्धया तथा॥ २९४॥
20. करणीय
कस्याऽपि ताडनं नैव करणीयं कदाचन।
अपशब्दाऽपमानादि-सूक्ष्महिंसाऽपि नैव च॥ ३८॥
यथा स्वधर्मरक्षा स्यात् तथैव वस्त्रधारणम्।
सत्सङ्गिनरनारीभिः करणीयं हि सर्वदा॥ ९४॥
सङ्गश्चारि यहीनायाः करणीयो नहि स्त्रियाः।
स्त्रीभिः स्वधर्मरक्षार्थं पाल्याश्च नियमा दृढम्॥ १८७॥
शक्या भगवतो यत्र भक्तिः स्वधर्मपालनम्।
तस्मिन् देशे निवासो हि करणीयः सुखेन च॥ २०४॥
सवाद्यं कीर्तनं कार्यं पर्वोत्सवेषु भक्तितः।
महिम्नश्च कथावार्ता करणीया विशेषतः॥ २४७॥
21 विधातव्य
प्रातः प्रतिदिनं सायं सर्वैः सत्सङ्गिभिर्जनैः।
आरार्तिक्यं विधातव्यं सस्तुति गृहमन्दिरे॥ ८१॥
सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।
अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥ १४०॥
स्वास्थ्यशिक्ष णसंरक्षा-विद्युदन्नजलादिक ैः।
सुव्यवस्था विधातव्या सर्वाऽभ्युद यहेतुना॥ २०२॥
22. क्वचित्
न कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्।
दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥ १९१॥
नियतोद्यमकर्तव्ये नाऽऽलस्यम् आप्नुयात् क्वचित्।
श्रद्धां प्रीतिं हरौ कुर्यात् पूजां सत्सङ्गमन्वहम्॥ २१५॥
23. यथारुचि / यथाशक्ति / यथाविधि / यथाकालं / यथोचितम
कीर्तनं वा जपं कुर्यात् स्मृत्यादि वा यथारुचि।
गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥ ८५॥
पुरुषोत्तममूर्त्या तद्-मध्यखण्डे यथाविधि।
सहितं स्थाप्यते मूर्तिरक्षरस्याऽपि ब्रह्मणः॥ ९१॥
प्रातः सायं यथाकालं सर्वसत्सङ्गिभिर्जनैः।
निकटं मन्दिरं गम्यं भक्त्या दर्शाय प्रत्यहम्॥ ९३॥
सदैवाऽऽदरणीया हि विद्वद्वरिष्ठशिक्षकाः।
यथाशक्ति च सत्कार्याः साधुवादादिकर्मणा॥ १६०॥
जनसंबोधनं कुर्याद् यथाकार्यगुणादिकम्।
संवर्धयेत् तदुत्साहं यथाशक्ति सुकर्मसु॥ १६१॥
संपाल्याः पुत्रपु यश्च सत्सङ्गशिक्ष णादि ना।
अन्ये सम्बन्धिनः सेव्या यथाशक्ति च भावतः॥ १७४॥
मिलित्वा भोजनं कार्यं गृहस्थैः स्वगृहे मुदा।
अतिथिर्हि यथाशक्ति संभाव्य आगतो गृहम्॥ १७६॥
अन्नफलादिभिश्चैव यथाशक्ति जलादिभिः।
पालिताः पशुपक्ष्याद्याः संभाव्या हि यथोचितम्॥ १९७॥
स्वसंप्रदायग्रन्थानां यथाशक्ति यथारुचि।
संस्कृते प्राकृते वाऽपि कुर्यात् पठनपाठने॥ २३५॥
सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा।
यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥
हरेर्गुरोर्विशिष्टानां प्रसङ्गानां दिनेषु च।
सत्सङ्गिभिर्यथाशक्ति कार्याः पर्वोत्सवा जनैः॥ २४६॥
मन्दिराणि च शास्त्राणि सन्तस्तथा कदाचन।
न निन्द्यास्ते हि सत्कार्या यथाशक्ति यथोचितम्॥ २५४॥
तेषां स्थानविशेषाणां यात्रां कर्तुं य इच्छति।
तद्यात्रां स जनः कुर्याद् यथाशक्ति यथारुचि॥ २५९॥
अयोध्यां मथुरां काशीं केदारं बदरीं व्रजेत्।
रामेश्वरादि तीर्थं च यथाशक्ति यथारुचि॥ २६०॥
24. तदा
वार्धक्येन च रोगाद्यैरन्याऽऽपद्धेतुना तथा।
पूजार्थम् असमर्थश्चेत् तदाऽन्यैः कारयेत् स ताम्॥ ७७॥
उच्चैः स्वरैर्जय स्वामि-नारायणेति भक्तितः।
सतालिवादनं गेयं स्थिरेण चेतसा तदा॥ ८२॥
मानेर्ष्याकामक्रोधादि-दोषाऽऽवेगो भवेत् तदा।
अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥ १५४॥
आपत्काले तु सम्प्राप्ते स्वीयवासस्थले तदा।
तं देशं हि परित्यज्य स्थेयं देशान्तरे सुखम्॥ २०८॥
चान्द्रायणोपवासादिर्मन्त्रजपः प्रदक्षि णाः।
कथाश्रुतिर्दण्डवच्च प्रणामा अधिकास्तदा॥ २४१॥
सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा।
यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥
गच्छेद् यदा दर्शनार्थं भक्तजनो हरेर्गुरोः।
रिक्तेन पाणिना नैव गच्छेत् तदा कदाचन॥ २६३॥
प्रायश्चित्तमनुष्ठेयं जाते त्वयोग्यवर्तने।
परमात्मप्रसादार्थं शुद्धेन भावतस्तदा॥ २६८॥
25. तत्र
सर्वेऽधिकारिणो मोक्षे गृहिणस्त्यागिनोऽपि च।
न न्यूनाऽधिकता तत्र सर्वे भक्ता यतः प्रभोः॥ १७॥
तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः।
नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥ ४३॥
मध्ये तु स्थापयेत्तत्र ह्यक्षरपुरुषोत्तमौ।
स्वामिनं हि गुणातीतं महाराजं च तत्परम्॥ ६१॥
संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।
कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥ ८६॥
मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा।
कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥ १३७॥
विद्याधनादिकं प्राप्तुं देशान्तरं गतेऽपि च।
सत्सङ्गमादरात् तत्र कुर्यान्नियमपालनम्॥ २०५॥
26 अक्षरब्रह्म
अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्।
कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥ ५८॥
गुणातीतसमारब्ध-परम्पराप्रतिष्ठितः।
प्रकटाऽक्षरब्रह्मैकः संप्रदायेऽस्ति नो गुरुः॥ ९९॥
अक्षरं ब्रह्म विज्ञेयं मन्त्रे स्वामीति शब्दतः।
नारायणेति शब्देन तत्परः पुरुषोत्तमः॥ ११०॥